अथ तृतायः पटलः
पूजासङ्केतमधुना कथयामि तवानघे ।
यस्य प्रबोधमात्रेण जिवन्मुक्तः प्रमोदते ।। १ ।।
तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता ।
परा चाप्यपर गौरि तृतीया च परापरा ।। २ ।।
प्रथमाद्वैतभावस्था सर्वप्रसरगोचरा ।
द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ।। ३ ।।
एवं ज्ञानमये देवि तृतीया तु परापरा ।
उत्तमा सा परा ज्ञेया विधानं शृणु साम्प्रतम् ।। ४ ।।
महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम् ।
आप्यायितजगद्रूपां पर्मामृतवर्षिणीम् ।। ५ ।।
सञ्चिन्त्य परमाद्वैतभावनामृतघूर्णितः ।
दहरान्तरसंसर्पन्नादालोकनतत्परः ।। ६ ।।
विकल्परूपसंजल्पविमुखोऽन्तर्मुखः सदा ।
चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः ।
इन्द्रियप्रीणनद्रव्यैविं हितस्वात्मपूजनः ।। ७ ।।
न्यासं निर्वर्तयेदेहे षोढान्यासपुरःसरम् ।
गणेशैः प्रथमो न्यासो द्वितीतस्तु ग्रहैर्मतः ।। ८ ।।
नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः ।
राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ।। ९ ।।
षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः ।
एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ।। १० ।।
नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः ।
स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ।। ११ ।।
षोढान्यासविहीनं यं प्रणमेदेष पार्वति ।
सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ।। १२ ।।
षोढान्यासप्रकारं च कथयामि तवानघे ।
विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।। १३ ।।
विघ्नकृद्विघ्नहर्ता च गणराट गणनायकः ।
एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ।। १४ ।।
कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः ।
गणनाथो गजेन्द्रश्च शुर्पकर्णस्त्रिलोचनः ।। १५ ।।
लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः ।
आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः ।। १६ ।।
एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः ।
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ।। १७ ।।
सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः ।
जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ।। १८ ।।
भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः ।
तरुणारुणसङ्काशान् गजवक्त्रान् त्रिलोचनान् ।। १९ ।।
पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान् ।
एतांस्तु विन्यसेदेहे मातृकान्यासवत्प्रिये ।। २० ।।
स्वरैस्तु सहितं सूर्यं हृदयाथः प्रविन्यसेत् ।
बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः ।। २१ ।।
भूपुत्रं लोचनद्वन्द्व कवर्गाधिपतिं प्रिये ।
हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः ।। २२ ।।
हृदयोपरि विन्यसेट्टवर्गाधिपतिं बुधम् ।
बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये ।। २३ ।।
नाभौ शनैश्चरं देवि पवर्गेशं सुरेश्वरि ।
वक्त्रेशादिचतुर्वर्णैः सहितं राहुमेव च ।। २४ ।।
क्षकारसहितं केतुं पायो देवेशि विन्यसेत् ।
[रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम् ।
कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपुर्वकान् ।।
कामरूपधरान् देवि दिव्याम्बरविभूषणान् ।
वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ।। ]
ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः ।। २५ ।।
पुटयोनिर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः ।
पश्चात्कूर्परयुग्मे च मणिबन्धद्वये पुनः ।। २६ ।।
स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम् ।
ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये ।। २७ ।।
[आद्ययुग्मन्तथा चैकं तस्त्रीणि चतुष्टयम् ।
एकमेकं द्वयञ्चेति स्वराः प्रोक्ताश्चतुर्दश ।। २८ ।।
व्यञ्जनेष्वेकमुभयं द्वयं न्यस्येदतः परम् ।
एकं युग्मं द्वयन्द्वन्द्वमेकं युग्मं द्वयन्ततः ।। २९ ।।
एकं त्रयं तथा चैकं एकमेकं द्वयन्तथा ।
एकं द्वयं त्रयं पश्चाल्लक्षं अं मश्चतुष्टयम् ।। ३० ।।
अशिव्न्यादेः पुरो भगे दत्वा चक्रमतो न्यसेत् ]
ज्वलत्कालानलप्रख्या वरदाभयपाणयः ।। ३१ ।।
नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः ।
एतास्तु विन्यसेद्देवि स्थानेष्वेषु सुरार्चिते ।। ३२ ।।
विशुद्धौ हृदये नाभौ स्वाधिष्टाने च मूलके ।
आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः ।। ३३ ।।
अमृतादियुताः सम्यङ्न्यस्तव्याश्च सुरेश्वरि ।
पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः ।। ३४ ।।
दक्षिणं पादमारभ्य वामपादावसानकम् ।
मेषादिराशयो वर्णैर्न्यस्तव्याः सह पार्वति ।। ३५ ।।
[चतुष्कं त्रितयं त्रीणि द्वितयं द्वितयं द्वयम् ।
पञ्चकं पञ्चकं पञ्च पञ्चक्तं पञ्चकं ततः ।।
चत्वारि मेरुर्मिने स्युः कन्यायां पञ्च शादयः । ]
पिठानि विन्यसेद्देवि मातृकास्थानके पुनः ।
तेषां नामानि वक्ष्यन्ते शृणुष्वावहिता प्रिये ।। ३६ ।।
कामरूपं वाराणसी नेपालं पौण्ड्रवर्धनम् ।
चरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ।। ३७ ।।
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ।
कैलासं भृगुनगरं केदारपूर्णचन्द्रके ।। ३८ ।।
श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले ।
कुलान्तं देविकोटं च गोकर्णं मारुतेश्वरम् ।। ३९ ।।
अट्टहासं च विरजं राजगेहं महापथम् ।
कोलापुर मेलापुरं ओङ्कारन्तु जयन्तिका ।। ४० ।।
उज्जयिन्यापि चित्रा च क्षीरकं हस्तिनापुरं ।
ओड्डीशं च प्रयागाख्यं षष्ठं मायापुरं तथा ।। ४१ ।।
जलेशं मलयं शैलं मेरुं गिरिवरं तथा ।
महेन्द्रं वामनं चैव हिरण्यपुरमेव चा ।। ४२ ।।
महालक्ष्मीपुरोड्याणं छायाछत्रमतः परम् ।
एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः ।। ४३ ।।
एवं षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् ।
श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये ।। ४४ ।।
यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम् ।
चतुरस्त्राद्यरेखायै नम इत्यादितो न्यसेत् ।। ४५ ।।
दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ ।
वामाङ्घ्र्यङ्गुलिषुस्फिक्के पाण्यग्रे चांसपृष्ठके ।। ४६ ।।
सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि ।
अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् ।। ४७ ।।
सिद्धिस्तदन्तश्च तनुव्यापकत्वेन सुन्दरि ।
[ चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे । ]
तस्याः स्थानेषु विन्यस्य ब्रह्माण्याद्यास्तदाष्टसु ।। ४८ ।।
पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्धन्यपार्श्वके ।
वामदक्षिणजान्वोश्च बहिरंसद्वये तथा ।। ४९ ।।
न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि ।
विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे ।। ५० ।।
तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत् ।
ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः ।। ५१ ।।
शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत् ।
तदान्तः षोडशदलपद्माय नम इत्यपि ।। ५२ ।।
विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत् ।
दलानि दक्षिनश्रोत्रपृष्ठमंसं च कूर्परम् ।। ५३ ।।
करपृष्ठं चोरुजानुगुल्फपादतलं तथा ।
वामपादतलाद्येवमेतदेवाष्टकं मतम् ।। ५४ ।।
तदन्तरे चाष्टदलपद्माय नम इत्यपि ।
विन्यस्य तद्दलेष्वेषु दक्षशङ्खे च जत्रुके ।। ५५ ।।
ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वमतः ।
अनङ्गकुसुमाद्याश्च शक्तीरष्टौ च विन्यसेत ।। ५६
तदनतश्चतुर्दशारचक्राय नम इत्यपि ।
विन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश ।। ५७ ।।
सर्वसङ्क्षोभिण्याद्यास्तु तस्य कोणानि वच्म्यहम् ।
ललाटं दक्षभागं च दक्षगण्डांसमध्यतः ।। ५८ ।।
पार्श्वान्तरूरुकङ्घान्तर्वामजङ्घादि पार्वति ।
वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् ।। ५९ ।।
ललाटवाममध्ये च तथा वै पृष्ठमित्यपि ।
ततो दशारचक्राय नम इत्यपि पार्वति ।। ६० ।।
तस्य कोणानि दक्षाक्षिनासामूलाऽऽस्यनेत्रके ।
कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च ।। ६१ ।।
कुक्षिनै ॠर्तिवह्न्याख्यकोणेष्वेषु न्यसेत् पुनः ।
सर्वासिद्धिप्रदादीनां शक्तीनां दशकं तथा ।। ६२ ।।
तदन्तस्च दशारादिचक्राय नम इत्यपि ।
विन्यस्य तस्य कोणेषु सर्वज्ञाद्याः प्रविन्यसेत् ।। ६३ ।।
दक्षनासा सृक्किणी चा स्तनं वृषणमेव च ।
सीविनी वाममुष्कं च स्तनं सृक्किणि नासिके ।। ६४ ।।
नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा ।
तदन्तरष्टकोणादिचक्राय नम इत्यपि ।। ६५ ।।
विन्यस्य तस्य कोणेषु वषिन्याद्यष्टकम् न्यसेत् ।
चिबुकं कण्ठहृदयनाभीनां चैव दक्षिणम् ।। ६६ ।।
ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम् ।
चतुष्ठयं च पार्श्वानामेतत् कोणाष्टकं मतम् ।। ६७ ।।
हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत् ।
शरचापौ पाशसृणी त्रिकोणाय नमस्तथा ।। ६८ ।।
विन्यस्य तस्य कोणेषु अग्रदक्षोत्तरेषु च ।
कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् ।। ६९ ।।
एवं मयोदितो देवि !न्यासो गुह्यतमक्रमः ।
एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते ।। ७० ।।
समयस्थाय दातव्यं नऽशिष्याय कदाचन ।
गुप्ताद् गुप्ततरं चैतत्तवाऽद्य प्रकटीकृतम् ।। ७१ ।।
मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत् ।
[त्रिकोणस्थे महाबिन्दौ महात्रिपुरसुन्दरीम् ] ।
शिरस्त्रिकोणपूर्वादि कामेश्वर्यादिकं न्यसेत् ।। ७२ ।।
बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत ।
सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् ।। ७३ ।।
मुण्डमूलक्रमेणैव न्यसेद्वाग्देवताष्टकम् ।
बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ।। ७४ ।।
नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः ।
चूडादिकण्ठनिम्नेऽर्धं शेषार्धं कर्णपृष्टके ।। ७५ ।।
कर्णे पूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत् ।
हृदये मनुकोणस्थ शक्तयोऽपि च पूर्ववत् ।। ७६ ।।
सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत् ।
नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके ।। ७७ ।।
उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम् ।
वंशवामान्तरालादि न्यसेदन्य चतुष्टयम् ।। ७८ ।।
स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम् ।
चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् ।। ७९ ।।
मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः ।
पुनर्वंशे च सव्ये च वामे चैवान्तरालके ।। ८० ।।
ऊर्धोधो दशमुद्राश्च ऊर्ध्वाधोवर्जितं पुनः ।
ब्रह्माण्याद्याष्टकं दक्षजन्घायां तास्तु पूर्ववत् ।। ८१ ।।
वामजङ्घां समारभ्य वामादिक्रमतोऽपि च ।
सिद्ध्यष्टकं न्यसेत्तेषु द्वयं पादतले न्यसेत् ।। ८२ ।।
कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् ।
एवं विन्यस्य देवेशीं स्वाभेदेन विचिन्तयेत् ।। ८३ ।।
ततश्च करशुद्ध्यादिन्यासं कुर्यात् समाहितः ।
अहं ते कथयाम्यद्य विद्यान्यासं शृनु प्रिये ।। ८४ ।।
मूर्ध्नि गुह्ये च हृदये नेत्रेषु त्रितयेषु च ।
श्रोत्रयोर्युगले चैव मुखे च भुजयोस्तथा ।। ८५ ।।
पृष्टे जान्वोश्च नाभौ च विद्यान्यासं विधाय च ।
करशुद्धिं पुनश्चैव आसनादिषडङ्गकम् ।। ८६ ।।
श्रीकण्ठादीनि वाग्देवीराधारे हृदये पुनः ।
शिखायां बैन्दवस्थाने त्वग्निचक्रादिका न्यसेत् ।। ८७ ।।
तत्त्वत्रयं समस्तं च विद्याबिजत्रयान्वितम् ।
पादादिनाभिपर्यन्तमागलं शिरस्तथा ।। ८८ ।।
व्यापकं चैव विन्यस्य स्वात्मीकृत्य परं पुनः ।
सन्तर्पयेत् पुनर्देवीं सौम्याग्नेयामृतद्रवैः ।। ८९ ।।
एवं चतुर्विधो न्यासः कर्वव्यो वीरवन्दिते ।
षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये ।। ९० ।।
करशुद्ध्यादिकस्चैव साधकेन सुसिद्धये ।
प्रातः काले तथा पूजासमये होमकर्मणि ।। ९१ ।।
जपकाले तथा तेषां विनियोगः पृथक् पृथक् ।
पूजाकाले समस्तं वा कृत्वा साधकपुङ्गवः ।। ९२ ।।
षट्त्रिंशतत्त्वपर्यन्तमासनं परिकल्प्य च ।
गुप्तादियोगिनीनां च मन्त्रेणाऽथ बलिं ददेत् ।। ९३ ।।
पिण~डरूपपदग्रन्थिभेदनाद् विघ्नभेदकम् ।
गुह्यहृन्मुखमूर्धसु विद्यान्यासनेअ सुन्दरि ।। ९४ ।।
यागमन्दिरगांश्चैव विघ्नानुत्सार्य मन्त्रवित् ।
[अपसर्पन्तु ते भूता ये भुता भूमिसंस्थिताः ।।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ]
पार्ष्णिघातेन भौमांश्च तालेन च नभोगतान् ।। ९५ ।।
अस्त्रमन्त्रेण विद्यांश्च दृष्ट्या विघानपोहयेत् ।
दिक्ष्वधोर्ध्वं महावह्निप्राकारं परिभावयेत् ।। ९६ ।।
सामान्यार्ध्येण देवेशि!मार्तण~डं परिपूजयेत् ।
प्रकाशशक्तिसहितमरुणाकल्पमुज्ज्वलम् ।। ९७ ।।
ग्रहादिपरिवारञ्च विश्वतेजोऽवभासनम् ।
सौम्याग्नेययुतैर्देवि रोचनागुरुकुङ्कुमैः ।। ९८ ।।
मूलमुच्चारयन् सम्यग्भावयेच्चक्रराजकम् ।
योगिनी मूलमन्त्रेण क्षिपेत् पुष्पाञ्जलिं ततः ।। ९९ ।।
मणिमुक्ताप्रवालैर्वा विलोमं मूलविद्यया ।
अशून्यं सर्वदा कुर्याच्छून्ये विघ्नास्त्वनेकशः ।। १०० ।।
श्रीचक्रस्यात्मनश्चैव मध्ये त्वर्घ्यं प्रतिक्षिपेत् ।
चतुरस्रान्तरालस्थकाणषट्के सुरेश्वरि ।। १०१ ।।
षडासनानि सम्पुज्य त्रिकोणस्यान्तरे पुनः ।
पीठानि चतुरो देवि कापूजा ओ इति क्रमात् ।। १०२ ।।
अर्चयित्वाऽर्घ्यपादे तु वह्नेर्दश कला यजेत् ।
अर्घ्यपात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ।। १०३ ।।
पात्रे सूर्यकलाश्चैव कभादिद्वादशार्चयेत् ।
विधृते तु पुनर्द्रव्ये षोडशेन्दुकला यजेत् ।। १०४ ।।
अमृतेशीं च तन्मध्ये भावयेच्च नवात्मना ।
नवात्मना ततो देवि तर्पेय्द्धातुदेवताः ।। १०५ ।।
आनन्दभैरवं वौषडन्तेनैव च तर्पयेत् ।
तदाज्ञाप्रेरितं तच्च गुरुषङ्क्तौ निवेदयेत् ।। १०६ ।।
तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः ।
गुरुपादालिमापूज्य भैरवाय ददेत् पुनः ।। १०७ ।।
तदीयं शेषमादाय कामाग्नौ विश्व ।। । स्थुषि ।
पादुकां मूलविद्यां च जपन् होमं समाचरेत् ।। १०८ ।।
महाप्रकाशे विश्वस्य संहारवमनोद्यते ।
मरीचिवृत्तीर्जुहुयान्मनसा कुण्डलीमुखे ।। १०९ ।।
अहन्तेदन्तयोरैक्यमुन्मन्यां स्रुचि कल्पितम् ।
मथनोद्रेकसम्भूतं वस्तुरूपं महाहविः ।। ११० ।।
हुत्वा हुत्वा स्वयं चैवं महजानन्दविग्रहः ।
स्वप्रधाप्रसराकारं श्रीचक्रं पूजयेत् सुधीः ।। १११ ।।
गणेशं दूतरीं चैव क्षेत्रेशं दूतिकां तथा ।
बाह्यद्वरे यजेद् देवि देवीश्च स्वस्तिकादिकाः ।। ११२ ।।
ततस्चान्तस्त्रिकोणऽपि गुरुपङ्क्तिं त्रिधा स्थिताम् ।
तदन्तश्च महादेवीं तामावाह्य यजेत् पुनः ।। ११३ ।।
महापद्मवनान्तस्थां कारणानन्दविग्रहाम् ।
मदङ्कोपाश्रितां देवीमिच्छाकामफलप्रदाम् ।। ११४ ।।
भवतीं त्वन्मयैरेव नैवेद्यादिभिरर्चयेत् ।
त्रिकोणे तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः पुनः ।। ११५ ।।
तत्तत्तिथिमयीर्नित्याः काम्यकर्मानुसारिणीः ।
तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने ।। ११६ ।।
मातृकास्थूलरूपत्वात्त्वगादिव्यापकत्वतः ।
योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रधात्मनि ।। ११७ ।।
अणिमाद्या महादेवि सिद्धयोऽष्टौ व्यवस्थिताः ।
तासु रक्ततरा बणैर्वराभयकरास्तथा ।। ११८ ।।
धृतचिन्तामहारत्ना मनीषितफलप्रदाः ।
ब्राह्म्याद्या अपि तत्रैव यष्टव्याः क्रमतः प्रिये ।। ११९ ।।
ब्रह्माणी पीतवर्णा च चतुर्भिः शोभिता मुखैः ।
वरदाऽभयहस्ता च कुण्डिका क्षलसत्करा ।। १२० ।।
माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी ।
कपालमेणं परशुं दधाना पाणिभिः प्रिये ।। १२१ ।।
[ऐन्द्री तु श्यामवर्णा च व्रजोत्पललसत्करा ]
कौमारी पीतवर्णा च शक्तितोमरधरिणी ।। १२२ ।।
वरदाभयहस्ता च ध्यातव्या परमेश्वरी ।
वैष्णवी श्यामवर्णा च शङ्खचक्रवराभयान् ।। १२३ ।।
हस्तपद्मैस्तु विभ्राणा भूषिता दिव्यभूषणैः ।
वाराही श्यामलच्छाया पोत्रि वक्त्रसमुज्ज्वला ।। १२४ ।।
हलं च मुसलं खड्गं खेटकं दधाती भुजैः ।
[ऐन्द्री श्यामलवर्णा च वज्रद्वयलसत्करा ] ।। १२५ ।।
चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा ।
खड्गं वेतालकं चैव दधाना दक्षिणैः करैः ।। १२६ ।।
नागखेटकघण्टा ख्यान् दधानान्यैः कपालकम् ।
महालक्ष्मीस्तु पीताभा पद्मदर्पणमेव च ।। १२७ ।।
मात लुङ्गफलं चैव दधान परमेश्वरी ।
एवं ध्यात्वा यजेदेताश्चक्रेशीं त्रिपुरां ततः ।। १२८ ।।
कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता ।
कायशुद्धिभवा सिद्धिरणिमा चात्र संस्थिता ।। १२९ ।।
षोडशस्पन्दसन्दोहे चमत्कृतिमयोः कलाः ।
प्राणादिषोडशानां तु वयुना प्राणनात्मिकाः ।। १३० ।।
बीज भूताः स्वरात्मत्वात् कलनाद बीजरूपकाः ।
अन्तरङ्गतया गुप्ता योगिन्यः संव्यवस्थिताः ।। १३१ ।।
कामाकर्षणरूपाद्याः सृष्टेः प्राधान्यतः प्रिये ।
सर्वाशापूरणाख्ये तु चक्रे वामेन पूजयेत् ।। १३२ ।।
पाशाङ्कुशधरा ह्येता रक्ता रक्ताम्बरा वृताः ।
प्राणशुद्धिमयी सिद्धिर्लघिमा भोक्तुरात्मनः ।। १३३ ।।
त्रिपुरेशी च चक्रेशी पूज्या सर्वोपचारकैः ।
[कौलिकानुभवाविष्टभोगपुर्यष्टकाश्रिताः ।। १३४ ।।
वाग्भवाष्टकसम्बन्धसूक्ष्मा वर्गस्वरूपतः ।
तास्तु गुप्ततराः सर्वाः सर्वसंक्षोभणात्मके ।। १३५ ।।
अनङ्गकुसुमाद्यास्तु रक्तकञ्चुकशोभिताः ]
[वेणीकृत लसत्केशाश्चापबाणधराः शुभाः ] ।। १३६ ।।
तत्तदाजारबुद्ध्यात्मबोग्यभोक्तुर्महेशितुः ।
पिण्डादिपदविश्रान्तिसौन्दर्यगुणसंयुता ।। १३७ ।।
चक्रेश्वरी बुद्धिशुद्धिरूपा च परमेश्वरी ।
महिमासिद्धिरूपा तु पूज्या सर्वोपचारकैः ।। १३८ ।।
द्वादशग्रन्थिभेदेन समुल्लसितसंविदः ।
विसर्गान्तदशवेशाच्छाक्तानुभवपूर्वकम् ।। १३९ ।।
उन्मेषषक्तिप्रसरैइरिच्छाशक्तिप्रधानकैः ।
तदेवाऽकुलसङ्घट्टरूपैर्वर्णचतुष्टयैः ।। १४० ।।
वेद्योष्मरूपसावर्णैर्मिश्रेच्छाभावितैरपि ।
कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः ।। १४१ ।।
शक्तेः सारमयत्वेन प्रसृतत्वान्महेश्वरि ।
स, प्रदायक्रमायाताश्चक्रे सौभाग्यदायके ।। १४२ ।।
निरन्तरओरधा रूपसौभाग्यं कलयोगतः ।
अन्तर्थसंज्ञिके देवि अणिमासदृशा: शुभाः ।। १४३ ।।
सर्वसङ्क्षोभिणीपूर्वा देहाक्षादिविशुद्धिदाः ।
ईशित्वसिद्धिरपि च प्रोतरूपे पुरत्रये ।। १४४ ।।
योगादिक्लेशभेदेन सिद्धा त्रिपुरवासिनीइ ।
एताः सम्पूजयेद देवि सर्वाः सर्वोपचारकैः ।। १४५ ।।
सदातनाना नादानां नवरन्ध्रस्थितात्मनाम् ।
महासामान्यरूपेण व्यावृत्तध्वनिरूपिणीइ ।। १४६ ।।
अस्थिरस्थिरवेद्यानां छायारूपैर्दशार्णकैः ।
कुलकौलिकयोगिन्यः सर्व्सिद्धिप्रदायिकाः ।। १४७ ।।
श्वेताम्ब्रधराः श्वेताः श्वेताभरणभूषिताः ।
मन्त्राणां स्वप्रधारूपयोगादन्वर्थसंज्ञ्के ।। १४८ ।।
सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वर्थसाधके ।
लोकत्रयसमृद्धीनां हेतुत्वाच्चक्रनायिका ।। १४९ ।।
त्रिपुरा श्रीर्महेशानि मन्त्रशुद्धिभवा पुनः ।
वशित्वसिद्धिराख्याता एताः सर्वाख़ समर्चयेत् ।। १५० ।।
ऊर्ध्वाधोमुखया देवि कुण्डलिन्या प्रकाशिताः ।
कुलेच्छया बहिर्भावात् कादिवर्णप्रथामयी ।। १५१ ।।
निगर्भयोगिनीवाच्याः स्वरूपावेशरूपके ।
सर्वावेशकर चक्रे सर्वरक्षाकरे पराः ।। १५२ ।।
सर्वज्ञाद्याः स्थिता एताः सह पुस्ताक्षमालिकाः ।
मातृमानप्रमेयाणां पुराणां परिपोषिणी ।। १५३ ।।
त्रिपुरामालिनी ख्याता चक्रेशी त्रिपुरमोहिनी ।
निरूद्धवायुसङ्घट्टस्फटितग्रन्थिमूलतः ।। १५४ ।।
हृदयान्तरसंवित्तिशून्यपर्यष्टकात्मना ।
बीजरूपस्वरकलास्पृष्टवर्गानुसारतः ।। १५५ ।।
रह्स्ययोगिनीर्देवीः संसारदलनोज्ज्वले ।
सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते ।। १५६ ।।
वशिन्याद्या रक्तवर्णा वरदाभयमुद्रिताः ।
पुस्तकं जपमालां च दधानाः सिद्धयोगिनीः ।। १५७ ।।
शुद्धिविद्याविशुद्धिं च भुक्तिसिद्धिं महेश्वरि ।
ईश्वरीं त्रिपुरां सिद्धां पूजयेद बिन्दुतर्पणैः ।। १५८ ।।
शक्तित्रयात्मिका देवि चिद्धामप्रसराः पुनाः ।
संवर्ताग्निकलारूपाः परमातिरहस्यकाः ।। १५९ ।।
पूर्णापुर्णस्वरूपायाः सिद्धेर्हेतुः सुरेश्वरि ।
सर्वासिद्धिमयाख्ये तु चक्रे त्वायुधभूषिताः ।। १६० ।।
स्थिताः कामेश्वरीपूर्वाश्चतस्त्रः पीठदेवताः ।
आयुधास्त्वतिरक्ताभाः स्वायुधोज्ज्वलमस्तकाः ।। १६१ ।।
वरदाभयहस्ताश्च्च पूज्या व्रतफलप्रदा:ः ।
त्वदीयाश्च मदीयाश्च पुंस्त्रिवश्यविधायिनः ।। १६२ ।।
त्वगसृङ्मांसमेदोस्थिशुक्लानां च महेश्वरि ।
द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः ।। १६३ ।।
वामादीनां पुराणां तु जननी त्रिपुर्म्बिका ।
परस्वातन्त्र्यरूपत्वादिच्छासिद्धिर्महेश्वरि ।। १६४ ।।
एताः सर्वोपचारेण पूजयेत्तु वरानने ।
सर्वानन्दमये देवि परब्रह्मात्मके परे ।। १६५ ।।
चक्रे संवित्तिरूपा च महात्रिपुरसुन्दरी ।
स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः सम ।। १६६ ।।
महाकामकलारूपा पीठविद्यादिसिद्धिदा ।
महामुद्रामयी देवि पूज्या पञ्चदशात्मिका ।। १६७ ।।
तत्तत्तिथिमयी नित्या नवमी भैरवी परा ।
प्रतिचक्रं समुद्रास्तु चक्रसङ्केतचोदिताः ।। १६८ ।।
नित्यक्लिन्न्नादिकाश्चैव काम्यकर्मानुसारतः ।
चतुरस्रान्तराले वा त्रिकोणे वा यजेत् सुधीः ।। १६९ ।।
अलिना पिशितैर्गन्धैर्धूपैराराध्य देवताः ।
चक्रपूजां विधाएत्थं कुलदीपं निवेदयेत् ।। १७० ।।
अन्तर्बहिर्भासमानं स्वप्रकाशोज्ज्वलं प्रिये ।
पुष्पाञ्जलिं ततः कृत्वा जपं कुर्यात् समाहितः ।। १७१ ।।
कूटत्रये महादेवि कुण्डलीत्रितयेऽपि च ।
चक्राणां पूर्वपूर्वेषां नादरूपेण योजिताम् ।। १७२ ।।
तेषु प्राणाग्निमायार्णकलाबिन्द्वर्धचन्द्रिकाः ।
रोधिनीनादनादान्ताः शक्तिव्यापिकलान्विताः ।। १७३ ।।
समना चोन्मना चेति द्वादशन्ते स्थिताः प्रिये ।
मूलकुण्डलिनीरूपे मध्यमे च ततः पुनः ।। १७४ ।।
सृष्ट्युन्मुखे च विश्वस्य स्थितिरूपे महेश्वरि ।
केवलं नादरूपेण उत्तरोत्तरयोजितम् ।। १७५ ।।
शबलाकारके देवि तृतीये द्वादशी कला ।
शून्यषट्कं तथा देवि ह्यवस्थापञ्चकं पुनः ।। १७६ ।।
विषुवं सप्तरूपं च भावयन् मनसा जपेत् ।
अग्न्यादिद्वादशान्तेषु त्रींस्त्रीन् त्यक्त्वा वरानने ।। १७७ ।।
शून्यत्रयं विजानीयादेकैकान्तरतः प्रिये ।
[शुन्यत्रयात् परे स्थाने महाशून्यं विभावयेत् ]
प्रबोध करणस्याऽथ जागरत्वेन भावनम् ।। १७८ ।।
वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः ।
आन्तरैः करणैरेव स्वप्नमायावबोधकः ।। १७९ ।।
गलदेशे सुषुप्तिस्तु लीनपूर्वस्य वेदनम् ।
अन्तःकरणवृओत्तीनां लयतो विषयस्य तु ।। १८० ।।
पूर्वार्णानां विलोमेन भ्रूमध्ये बिन्दुसंस्थिता ।
तुर्यरूपं तथा चात्र वृत्तार्धादेस्तु सङ्ग्रहः ।। १८१ ।।
चैतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम् ।
तुर्यातीतं सुखस्थानं नादान्तादिस्थितं प्रिये ।। १८२ ।।
अत्रैव जपकाले तु पञ्चावस्थाः स्मरेद बुधः ।
योगः प्राणात्ममनसां विषुवं प्राणसंज्ञितम् ।। १८३ ।।
आधारित्थितनादे तु लीनं बुद्ध्यात्मरूपकम् ।
संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि ।। १८४ ।।
अनहताद्याधारान्तं नादात्मत्वविचिन्तनम् ।
नादसंस्पर्शनात्तस्य नाडीविषुवमुच्यते ।। १८५ ।।
द्वादशग्रन्थिभेदेन वर्णानामन्तरे प्रिये ।
नादयोगः प्रशान्तं तु प्रशान्तेन्द्रियगोचरम् ।। १८६ ।।
वह्निं मायां कलां चैव चेतनामर्धचन्द्रकम् ।
रोधिनीनादनादान्तान् शक्तौ लीनान् विभावयेत् ।। १८७ ।।
विषुवं शक्तिसंज्ञं तु तदुर्ध्वं नादचिन्तनम् ।
तदुर्ध्वं कालविषुवमुन्मनान्तं महेश्वरि ।। १८८ ।।
मुनिचन्द्राऽष्टदशभिस्त्रुटिभिर्नादवेदनम् ।
चैतन्यव्यक्तिहेतुश्च विषुवं तत्त्वसंज्ञितम् ।। १८९ ।।
परं स्थानं महादेवि निसर्गानन्दसुन्दरम् ।
एवं चितयमानस्य जपकालेषु पार्वति ।। १९० ।।
सिद्धयः सकलास्तूर्णां सिद्ध्यन्ति त्वत्प्रसादतः ।
एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् ।। १९१ ।।
अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः ।
मद्यं मांसं तथा मत्स्यं देव्यास्तु विनिवेदयेत् ।। १९२ ।।
कौलाचारसमायुक्तैर्विरैर्स्तु सह पूजयेत् ।
पुष्यभेन तु वारे च सौरे च परमेश्वरि ।। १९३ ।।
गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च ।
चक्रपूजां विशेषेण योगिनीनां समाचरेत् ।। १९४ ।।
चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् ।
चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिते ।। १९५ ।।
अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् ।
त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी ।। १९६ ।।
अज्ञात्व तु कुलाचारमयष्ट्वा गुरुपादुकाम् ।
योऽस्मिन् शास्त्रे प्र्वर्तेत तं त्वं पीडयसि ध्रुवम् ।। १९७ ।।
एवं ज्ञात्वा वरारोहे कौलाचारपरः सदा ।
आवयोः शबलाकारं मद्यं तत्र निवेद्य च ।। १९८ ।।
त्वत्प्रधा प्रसराकारास्त्वामेव परिभावयेत् ।
वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत् ।। १९९ ।।
त्वन्मयस्य गुरोः शेषं निवेद्यात्मनि योजयेत् ।
योगिनीनां महादेवि बटुकायात्मरूपिणे ।। २०० ।।
क्षेत्राणां पतये मद्यं बलिं कुर्वित हेतुना ।
नित्यं पिबन् वमन् खादन् स्वेच्छाचारपरः स्वयम् ।। २०१ ।।
अहन्तेदन्तयोरौक्यं भावयन् विहरेत् सुखम् ।
एतत्ते कथितं सर्वं सङ्केतत्रयमुत्तमम् ।। २०२ ।।
गोपनीयं प्रयत्नेन स्वगुह्यमिव सुव्रते ।
चुम्बके ज्ञानलुब्धे च न प्रकाश्यं त्वयानघे ।। २०३ ।।
अन्यायेन न दातव्यं नास्तिकानां महेश्वरि ।
एवं त्वयाऽहमाज्ञप्तो मदिच्छारूपया प्रभो ।। २०४ ।।
अज्ञानेन तु यो दद्यात् स परेतो भविष्यति ।
सङ्केतं यो विजानाति योगिनीनां भवेत्प्रियः ।। २०५ ।।
सर्वेप्सितफलावाप्तिः सर्वकामफलाश्रयः ।
यतोऽपि दृश्यते देवि कथं विद्वान्न चिन्तयेत् ।। २०६ ।।
।। इति योगिनीहृदयम् स्तोत्रम् ।।
|