अथ द्वितीयः पटलः
मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते ।
यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ।। १ ।।
करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका ।
आत्मासनगता देवी तृतीया तदनन्तरम् ।। २ ।।
चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता ।
साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ।। ३ ।।
मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता ।
अष्टम्यावाहिनी विद्या नवमा भैरवी परा ।। ४ ।।
मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी ।
एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ।। ५ ।।
एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि ।
पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ।। ६ ।।
आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् ।
मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ।। ७ ।।
अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् ।
चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ।। ८ ।।
तासां नामानि वक्ष्यामि यथानुक्रमयोगतः ।
तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ।। ९ ।।
तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी ।
चतुर्थी च महादेवी देवी त्रिपुरवासिनी ।। १० ।।
पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी ।
सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ।। ११ ।।
नवमी तु माहदेवी महात्रिपुरसुन्दरी ।
पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ।। १२ ।।
एवं नवप्रकाराद्या पुजाकले तु पार्वति ।
एकाकारा ह्याद्यशक्तिरजरामरकारिणी ।। १३ ।।
मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः ।
नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ।। १४ ।।
षडविधस्तं तु देवेशि कथयामि तवानधे ।
भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ।। १५ ।।
तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ।
अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ।। १६ ।।
योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये ।
शिवशक्तिसमायोगा~ज्जनितो मन्त्रराजकः ।। १७ ।।
तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् ।
निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ।। १८ ।।
शिवशक्त्यात्मसंघट्टरूपे ब्र्ह्माणि शाश्वते ।
तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ।। १९ ।।
ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी ।
तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ।। २० ।।
मध्यबिन्दुविसर्गान्तः समास्थानमये परे ।
कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ।। २१ ।।
मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः ।
मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ।। २२ ।।
राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु ।
धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ।। २३ ।।
वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी ।
तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ।। २४ ।।
कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् ।
आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ।। २५ ।।
सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ।
विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ।। २६ ।।
शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ।
जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ।। २७ ।।
पञ्चभूतमयं विश्वं तन्मयी सा सदानघे ।
तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ।। २८ ।।
हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनह ।
रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ।। २९ ।।
लकारात, ह पृथिवी जाता तस्माद विश्वमयी च सा ।
गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ।। ३० ।।
यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता ।
सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ।। ३१ ।।
व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः ।
पञ्चभिश्च तथा षड भिश्चतुर्भिरपि चाक्षरः ।। ३२ ।।
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी ।
सप्तत्रिंशत्प्रभेदेन षट त्रिंशतत्त्वरूपिणी ।। ३३ ।।
तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा ।
पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ।। ३४ ।।
भूतं त्वधस्तनं व्याप्यं तद गुणा व्यापकाश्रयाः ।
व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ।। ३५ ।।
तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ।
व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम ।। ३६ ।।
तेषां कारुणरूपेण स्थित ध्वनिमयं परम् ।
भवेद् गुणवतां बीजं गुणानामपि वाचकम् ।। ३७ ।।
कार्यकारणभावेन तयोरैक्य विवक्षया ।
महामायात्रयेणापि कारणेन च बिन्दुना ।। ३८ ।।
वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ।
उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ।। ३९ ।।
रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् ।
प्रधानं तेजसो रूपं तद बीजेन हि जन्यते ।। ४० ।।
विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः ।
सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ।। ४१ ।।
वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका ।
भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ।। ४२ ।।
अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः ।
क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ।। ४३ ।।
श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः ।
प्राणरूपस्थितो देवि तद्वदेकादशः परः ।। ४४ ।।
एकः सन्नेव पुरुषो बहुधा कायते हि सः ।
रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ।। ४५ ।।
बिन्दुत्रयेण कथिता अमितामितविग्रहाः ।
शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ।। ४६ ।।
वागुरामूलवलये सूत्राद्याः कवलीकृताः ।
तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ।। ४७ ।।
गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ।
निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ।। ४८ ।।
शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ।। ४९ ।।
निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ।। ५० ।।
भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः ।
कौलिकं कथयिष्यामि चक्रदेवतयोरपि ।। ५१ ।।
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते ।
लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ।। ५२ ।।
सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये ।
हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ।। ५३ ।।
बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ।
मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ।। ५४ ।।
व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम् ।
इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ।। ५५ ।।
सदाशिवासनं देवि महाबिन्दुमयं परम् ।
इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ।। ५६ ।।
एकादशाधिकशतदेवतात्मतया पुनः ।
गणेशत्वं महादेव्याः ससोमरविपावकैः ।। ५७ ।।
इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैह पुनः ।
ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ।। ५८ ।।
तदर्थैरेव देवेशि करणैरान्तरैः पुनः ।
प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ।। ५९ ।।
नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते ।
त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ।। ६० ।।
वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता ।
योगिनीरूपमास्थाय राजते विश्वविग्रा ।। ६१ ।।
प्राणापानौ समानश्चोदनव्यानौ तथा पुनः ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।। ६२ ।।
जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी ।
अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ।। ६३ ।।
गणेशोऽभून्महाविद्या परावागादिवाङ्मयी ।
बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ।। ६४ ।।
हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः ।
अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ।। ६५ ।।
विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड भिस्तथाक्षरैः ।
योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ।। ६६ ।।
एवं विश्वप्रकारा च चक्र रूपा महेश्वरी ।
देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ।। ६७ ।।
तत्प्रसादाच्च शिष्योऽपि तद्रूपः संप्रजायते ।
इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ।। ६८ ।।
तथा सर्वरह्स्यार्थं कथयामि तवानघे ।
मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ।। ६९ ।।
अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा ।
विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ।। ७० ।।
तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः ।
व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ।। ७१ ।।
सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी ।
एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ।। ७२ ।।
महातत्त्वार्थं इति यत्तच देवि वदामि ते ।
निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ।। ७३ ।।
व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे ।
विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ।। ७४ ।।
तदा प्रकाशमानत्वं तेजसां तमसामपि ।
अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ।। ७५ ।।
प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले ।
निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ।। ७६ ।।
रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः ।
महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ।। ७७ ।।
विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः ।
कौलाचारपरैर्देवि पादुकाभावनापरैः ।। ७८ ।।
योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः ।
शङ्काकलङ्कविगतैः सदा मुदितमानसैः ।। ७९ ।।
पारम्पर्येण विज्ञातरहस्यार्थविशारदैः ।
लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ।। ८० ।।
पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः ।
तेषां समयलोपेन विकुर्वन्ति मरीचयः ।। ८१ ।।
यस्तु दिव्यरसास्वादमोदमानविमर्शनः ।
देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ।। ८२ ।।
मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः ।
सर्वदा च विशेषण लभते पूर्णबोधताम् ।। ८३ ।।
एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः ।
महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ।। ८४ ।।
एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम् ।
देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड विधम् ।
सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ।। ८५ ।।
|